Surprise Me!

Shri Ganga Kavacham With Lyrics 11 Times | गंगा कवचम् - ॐ द्रव्यरूपा महाभागा | Brahmand Puran

2022-05-09 7 Dailymotion

Presenting Rajshri Soul Peaceful Mantra "Shri Ganga Kavacham With Lyrics 11 Times | गंगा कवचम् - ॐ द्रव्यरूपा महाभागा"

Lyrics :

ॐ श्रीगणेशाय नमः ।
ॐ गङ्गायै नमः ।
विनियोगः -
गङ्गाकवचस्य विष्णुरृषिविराट्छन्दः
चतुर्दश पुरुष उद्धारण अर्थे पाठे विनियोगः ।

ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च ।
अभिषेके पूजने च पातु मां शुक्लरुपिणी ॥ १॥

विष्णुपादप्रसूतासि वैष्णवी नामधारिणी ।
पाहि मां सर्वतो रक्षेद्गङ्गा त्रिपथगामिनी ॥ २॥

मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा ।
अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति ॥ ३॥

भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ।
पञ्चाक्षरमिमं मन्त्रं यः पठेच्छृणुयादपि ॥ ४॥

रोगी रोगात्प्रमुच्येत्बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत् पुत्रं वन्ध्या पुत्रवती भवेत् ॥ ५॥

गङ्गास्मरणमात्रेण निष्पापो जायते नरः ।
यः पठेद्गृहमध्ये तु गङ्गास्नानफलं लभेत् ॥ ६॥

स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् ।
यः पठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह ॥ ७॥

॥ इति श्रीविष्णुयामले शिवपार्वतीसंवादे गङ्गाकवचं सम्पूर्णम् ।

Buy Now on CodeCanyon